





जिसे महर्षि धौम्य ने युधिष्ठिर को प्रदान किया –
सूर्यो र्यमा भगस्त्वष्टा पूषार्कः सविता रविः।
गर्भस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ।।
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम ।
सोमो बृहस्पति शुक्रो बुधोऽगारंक एव च ।।
इन्द्रो विवस्वान् दीप्तांशु शुचि: शौरी: शनैश्चरः ।
बह्म्रा विष्णुश्च रूद्रश्च स्कन्दो वै वरुणो यमः ।।
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः ।
धर्मध्वजो वेदकर्ता वेदांगो वेदवाहनः ।।
कृतं त्रेता द्वापरश्च कलि सर्वमलाश्रयः ।
कला काष्ठा मुहूर्ताश्च क्षपा यामस्तथा क्षणः ।।
संवत्सरकरो श्वत्थः कालचक्रो विभवसुः ।
पुरुष: शाश्वतो यागी व्यक्ताव्यक्त सनातनः ।।
कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः ।
वरूणः सागरोशश्च जीमूतो जीवनो रिहा ।।
भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः ।
स्रष्टा सवर्तको वह्रिः सर्वस्यादिरलालुपः ।।
अनन्तः कपिलो भानुः कादमः सर्वतोमुखः ।
जयो विशालो वरदः सर्वधातुनिषेचिता ।।
मनः सुपर्णों भूतादिः शीद्य्रगः प्राणधारकः ।
धन्वन्तरिधूमकेजुरादिदेवोऽदितेः सुतः ।।
द्वादशात्मारविन्दाक्षः पिता माता पितामाहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टिपम ।।
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुख: ।
चराचरात्मा सूक्ष्मात्मा मत्रं ये: करूणान्वितः ।।
एतद वै कीर्तनीयस्य सूर्यस्यामिततेजसः ।
नमाष्टशतकं चेदं प्रोक्तमेतत स्वयंभुवा ।।
स्रुगणापितृयक्षसेवितं ह्नासुरनिशाचर सिद्धवन्दितम ।
व्रकनकहुताशप्रभंप्रणिपतितोऽस्मिहितायभास्करम् ।।
सूर्योदये यः सुसमाहितः पठेत् ।
स पुत्रदारान धनरत्नसंचयान ।।
लभेत जातिस्मरतां नरः सदा
धृतिं च मेधा च स विन्दते पुमान ।।
इमं स्तवं देववरस्य यो नरः
पकीर्तयेच्छुचिसुमनाः समाहितः ।
विमुच्यते शोकदवाग्निसागरा
ल्लभेच कामान् मनसा यथेप्सितान् ।।
It is mandatory to obtain Guru Diksha from Revered Gurudev before performing any Sadhana or taking any other Diksha. Please contact Kailash Siddhashram, Jodhpur through Email , Whatsapp, Phone or Submit Request to obtain consecrated-energized and mantra-sanctified Sadhana material and further guidance,